________________
विलसितप्रतिमम् ॥ १ ॥” इत्यादि ॥ १७ ॥ अपिच-' इतः' अमुष्मात् मनुष्यभंवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे पर्यटतो 'बोधिः' सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपूरावर्त कालेनं यतो भवति, तथा 'दुर्लभा ' दुरापा तथाभूता - सम्यग्दर्शनप्राप्तियोग्या 'अर्चा' लेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽच मनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्र सुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थं व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः तेषां तथाभूताच सुदुर्लभा भवतीति ॥ १८ ॥ किञ्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगद्रष्टारः त एवंभूताः परहितैकरताः 'शुद्धम्' अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति' प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशम्' अनन्यसदृशं धर्मम् आख्यान्ति अनुतिष्ठन्ति (च) । तदेवम् 'अनीदृशस्य' अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं - सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा ?, जातो | मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत इति, तथोक्तम् — “ दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति | नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ १ ॥ इत्यादि ॥ १९ ॥ किंचान्यत्— कर्मबीजाभावात् 'कुतः' कस्मात्कदाचिदपि 'मेधाविनो' ज्ञानात्मकाः तथा अपुनरावृत्त्या गतास्तथा गताः पुनरस्मिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते ?, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा 'तथागताः' तीर्थकृद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्धनरूपा येषां तेऽप्रतिज्ञा - अनिदाना निराशंसाः सत्त्व हितकरणोद्यता अनुत्तरज्ञानखादनुत्तरा 'लोकस्य' जन्तुगणस्य सदसदर्थ१ वान्तसम्यक्त्वधर्मस्यैतावताऽवश्यं सम्यक्त्वस्य पुनः प्राप्तेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org