SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥२५९॥ ष्याणामेकेषामिदमाह - यथा मनुष्य एवाशेषकर्मक्षयात्सिद्धिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथा| देव एवाशेषकर्मप्रहाणं कृत्वा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्र परिणामाभावाद्यथा मनुष्याणां तथा मोक्षावाप्तिरिति ॥ १६ ॥ इदमेव खनामग्राहमाह अंत करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ इओ विद्वंसमाणस्स, पुणो संबोहि दुल्लभा । दुलहाओ तहच्चाओ, जे धम्मटुं वियागरे ॥ १८ ॥ जे धम्मं सुखमक्खंति, पडिपुन्नमणेलिसं । अणेलिसस्स जं ठाणं, तस्स जम्मका कओ ? ॥ १९ ॥ कओ कयाइ मेधावी, उप्पज्जंति तहागया । तहागया अप्पडिन्ना, चक्खू लोगस्सणुत्तरा ॥ २० ॥ न मनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामय्यभावात्, यथैकेषां वादिनामाख्यातं, तद्यथा - देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह - आर्हते प्रवचने इति । इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथा-युगस मिलादिन्यायावाप्तकथञ्चित्कर्म विवरात् योऽयं शरीरसमुच्छ्रयः सोऽकृतधर्मोपायैरसुमद्भिर्महास - | मुद्रप्रभ्रष्टरत्नवत्पुनर्दुर्लभो भवति, तथा चोक्तम्- " ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लता१ इष्टितोऽवधारण विधेर्भवतीत्यस्याप्रतो योजनैवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अन्यथा बुद्धस्यापि मनुष्यत्वादनिर्मोक्षप्रसङ्गः । २ शरीरमेव पुगलसंघात त्वात्सनुच्छ्रयः 'उस्सय समुस्सए वा' इति वचनात् समुच्छ्रय एव वा देवाचकः शरीरशब्दस्तु विशेषणं । Jain Education International For Personal & Private Use Only १५आदानीयाध्य० ॥२५९॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy