________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं
॥२५६॥
कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततस्रुय्यति, तस्यैवं लोकं कर्म वा जानतो नवानि कर्माव्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति निवर्तन्ते वा नवं च कर्मकुर्वतोऽशेषकर्मक्षयो भवतीति ॥ ६ ॥ केषाञ्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावासी [तथापि ] खतीर्थनि कारदर्शनतः पुनरपि संसाराभिगमनं भवती (ती) दमाशङ्कयाह-तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि 'नवं' प्रत्ययं कर्म ज्ञानावरणीयादिकं 'नास्ति' न भवति, कारणाभावात्कार्याभाव इतिकृखा, कर्माभावे च कुतः संसाराभिगमनं १, कर्मकार्यत्वात्संसारस्य, तस्य चोपरताशेषद्वन्द्वस्य खपरकल्पनाऽभावाद्रागद्वेषरहिततया खदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतद्गुणोपेतः कर्माष्टकारमपि कारणतस्तद्विपाकतश्च जानाति, नमनं नाम - कर्मनिर्जरणं तच्च सम्यक् जानाति, यदिवा कर्म जानाति तन्नाम च, अस्य चोपलक्षणार्थखात्तद्भेदां प्रकृतिस्थित्यनुभावप्रदेशरूपान् सम्यगवबुध्यते, संभावनायां वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च कर्मबन्धं तत्संवरणनिर्जरणोपायं चासौ 'महावीरः' कर्मदारणसहिष्णुस्तत्करोति येन कृतेनास्मिन् संसारोदरे न पुनर्जायते तदभावाच्च नापि म्रियते, यदिवा - जात्या नारकोऽयं तिर्यग्योनिकोऽयमित्येवं न मीयते न परिच्छिद्यते, अनेन च कारणाभावात्संसाराभावाविर्भावनेन यत्कैश्चिदुच्यते- 'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्व, सहसिद्धं चतुष्टयम् ॥ १ ॥" इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति तत्प्रतिपा| दिकाया युक्तेरसंभवादिति ॥ ७ ॥ किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह- असौ महावीरः परित्यक्ताशेषकर्मा न जात्यादिना 'मीयते' परिच्छिद्यते, न म्रियते वा, जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन् न भ्रियते न पूर्यते,
Jain Education International
For Personal & Private Use Only
१५आदानीयाध्य०
॥२५६॥
www.jainelibrary.org