________________
अभिमतास्ता 'जीवित भावना' जीवसमाधानकारिणीः सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति ॥ ४ ॥ सद्भावनाभावितस्य | यद्भवति तद्दर्शयितुमाह
भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपन्ना, सवदुक्खा तिउ ॥ ५ ॥ तिउई उ मेधावी, जाणं लोगंसि पावगं । तुहंति पावकम्माणि, नवं कम्ममकुवओ ॥ ६ ॥ अओ वं णत्थि, कम्मं नाम विजाणइ । विन्नाय से महावीरे, जेण जाई ण मिजई ॥ ७ ॥
मिज्जई महावीरे, जस्स नत्थि पुरेकडं । वाउव जालमच्चेति, पिया लोगंसि इत्थिओ ॥ ८ ॥ भावनाभिर्योगः - सम्यक् प्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा - अन्तरात्मा यस्य स तथा स च भावना योगशुद्धात्मा | सन् परित्यक्तसंसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव - यथा जले निमज्जनखेन प्रख्याता एवम सावपि | संसारोदन्वति न निमञ्जतीति । यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्द त्येवमायतचारित्रवान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् 'त्रुट्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्वो| परमरूपमवाप्नोतीति ॥ ५ ॥ अपिच - स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानस्त्रिभ्यो - मनोवाक्कायेभ्योऽशुभेभ्यस्त्रुट्यति, यदिवा अतीव सर्वबन्धनेभ्यसुय्यति - मुच्यते अतित्रुट्यति – संसारादतिवर्तते 'मेधावी' मर्यादाव्यवस्थितः सदस| द्विवेकी वाऽस्मिन् 'लोके' चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि 'पापकं कर्म सावधानुष्ठानरूपं तत्कार्य वा अष्टप्रकारं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org