________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं
दिनि.
॥२४॥
विनाश इति तात्पर्यार्थः, यदिवा-'दुहओ'त्ति द्विरूपादात्मनः स्वभावाचेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि-पृथिव्यप्ते- १समया| जोवाय्वाकाशानि स्वरूपापरित्यागतया नित्यानि, 'न कदाचिदनीदृशं जगदि तिकृत्वा, आत्माऽपि नित्य एव, अकृतकत्वादिभ्यो | ध्ययने आ
हेतुभ्यः, तथा चोक्तम्-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥१॥ त्मषष्ठवा| अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥" एवं च कृत्वा नासदुत्पद्यते, सर्वस्य । सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा चोक्तम्-"असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ॥१॥" एवं च कृत्वा | मृत्पिण्डेऽपि घटोस्ति, तदर्थिनां मृत्पिण्डोपादानात् , यदि चासदुत्पद्येत ततो यतः कुतश्चिदेव स्थात्, नावश्यमेतदर्थिना मृत्पि| ण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति । एवं च कृत्वा सर्वेऽपि भावाः-पृथिव्यादय आत्मषष्ठाः 'नियतिभावं' नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा |चाभिहितम् —"नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएई'त्यादिप्राक्तन्येव | गाथा, सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात् , ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच्च को वेदयति , न
॥२४॥ कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात, तथा असतश्चोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात् , ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाअच्युतानु१० मदाह्योऽय०प्र० । २ सर्वगतः प्र.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org