________________
|| एवमदुग्धत्वस्तोकदुग्धत्वरूपावपि हेतू न गोत्वाभावं साधयतः, उक्तन्यायेनैव दार्टान्तिकयोजना कार्येति ३५ ॥ १४ ॥ साम्प्र-181 तमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह
संति पंच महब्भूया, इहमेगेसि आहिया । आयछट्टो पुणो आहु, आया लोगे य सासए ॥ १५॥४॥ __'सन्ति' विद्यन्ते 'पञ्च महाभूतानि' पृथिव्यादीनि 'इह' असिन्संसारे 'एकेषां वेदवादिना सांख्यानां शैवाधिकारिणां च, | एतद् आख्यातम् आख्यातानि वा भूतानि, ते च वादिन एवमाहुः–एवमाख्यातवन्तः, यथा 'आत्मषष्ठानि' आत्मा षष्ठो येषां | तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयतिआत्मा 'लोकश्च' पृथिव्यादिरूपः 'शाश्वतः' अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्चाकाशस्येव शाश्वतत्वं, पृथिव्यादीनां च तद्रूपाप्रच्युतेरविनश्वरत्वमिति ॥१५॥ शाश्वतत्वमेव भूयः प्रतिपादयितुमाह
दुहओ ण विणस्संति, नो य उप्पजए असं । सत्वेऽवि सवहा भावा, नियत्तीभावमागया ॥१६॥
'ते' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत'इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां स्वत एव | निर्हेतुको विनाशः, तथा च ते ऊचुः–'जातिरेव हि भावानां, विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स | केन च ॥१॥" यथा च वैशेषिकाणां लकुटादिकारणसानिध्ये विनाशः सहेतुकः, तेनोभयरूपेणापि विनाशेन लोकात्मनोने | १ वैशेषिकाणां प्र.
Jain Education
For Personal & Private Use Only
P
urjainelibrary.org