________________
सूत्रकृताङ्गं शीलाङ्का चार्ययतितं
॥ २३ ॥
पि च क्रियाविशेषत्वादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद्यत्किश्चिदेतदिति ॥ ३४ ॥ ननु च भुजिक्रियामात्रेण प्रतिविम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणास्माभिः सक्रियत्वमिष्यते, किं तर्हि ?, समस्तक्रियावत्वे सतीत्येतदाशङ्कय नियुक्तिकृदाह
हु अफलथोवणिच्छितकाल फलत्तणमिहं अदुमहेऊ । णादुद्धथोवदुद्धत्तणे णगावित्तणे हेऊ ॥ ३५ ॥ 'न हु' नैवाफलत्वं द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा त्वद्रुम इति भावः एवमात्मनोऽपि सुप्ताद्यवस्थायां यद्यपि कथञ्चिन्निष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमर्हति तथा स्तोकफलत्वमपि न वृक्षाभावसाधनायालं, खल्पफलोऽपि हि पनसादिर्वृक्षव्यपदेशभाग्भवति, एवमात्माऽपि स्वल्पक्रियोऽपि क्रियावानेव, कदाचिदेषा मतिर्भवतो भवेत् स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनो न धनित्व (व्यपदेश ) मास्कन्दति, एवमात्माऽपि स्वल्पक्रियत्वादक्रिय इति, एतदप्यचारु, यतोऽयं दृष्टान्तः प्रतिनियत पुरुषापेक्षया चो (त्रो) पगम्यते समस्तपुरुषापेक्षया वा ?, तत्र यद्याद्यः पक्षः तदा सिद्धसाध्यता, यतः - सहस्रादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् जरच्चीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपि धनवानेव, तथाऽऽत्मापि यदि विशिष्टसामर्थ्योपेत पुरुषक्रियापेक्षया निष्क्रियोऽभ्युपगम्यते न काचित्क्षतिः सामा| न्यापेक्षया तु क्रियावानेव इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकाल फलत्वाख्यहेतुद्वयमपि न वृक्षाभावसाधकम् इत्यादि योज्यं,
१ चोच्यते प्र० ।
Jain Education onal
For Personal & Private Use Only
१ समयाध्ययने अ
कार कवादिनिरा.
॥ २३ ॥
ainelibrary.org