SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ त्पन्नस्थिरैकखभावखे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिसरणादिकं च न प्राप्नोति, यच्चोक्तं 'सदेवोत्पद्यते। तदप्यसत्, यतो यदि सर्वथा-सदेव कथमुत्पादः१, उत्पादश्चेत् न तर्हि सर्वदा सदिति, तथा चोक्तम्-“कर्मगुणव्यपदेशाः प्रागुत्पत्तेने सन्ति यत्तस्मात् । कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्च कर्तृणाम् ॥१" तस्मात्सर्वपदार्थानां कथञ्चिनित्यखं कथञ्चिदनित्यखं सदसत्कार्यवादश्चेत्यवधार्य, तथा चाभिहितम्-"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यसमथ च न विशेषः। सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥” इति, नथा "नान्वयः स हि भेदखान भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः ॥१॥" ॥१६।। साम्प्रतं बौद्धमतं पूर्वपक्षयन्नियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाह__पंच खंधे वयंतेगे, बाला उ खणजोइणो । अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं ॥ १७ ॥ 'एके' केचन वादिनो बौद्धाः 'पञ्च स्कन्धान वदन्ति' रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः | कश्चिदात्माख्यः स्कंधोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधाबादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखा चेति | | वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमित्यादि विज्ञानं विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोद्वाहणात्मकः प्रत्ययः ४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५। न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्य-8 |भिचारिलिङ्गग्रहणाभावात् , नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला| यथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः 'क्षणयोगिनः परमनिरुद्धः कालः क्षणः क्षणेन योगः-सं सुत्रकृ.५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy