SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ क्षुषाऽन्यथाभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा - मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिचयोऽयाकारेणापीति । नच सर्व| ज्ञप्रणीतस्यागमस्य कचिदपि व्यभिचारः, तद्व्यभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेन प्रतिषेद्धुमशक्यत्वादिति ॥ ॥ १३ ॥ शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च सम्यक् मूलोत्तरगुणान् जानाति, तत्र मूलगुणान|धिकृत्याह – ऊर्ध्वमधस्तिर्यग् दिक्षु विदिक्षु चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपात विरतिरभिहिता, द्रव्यतस्तु दर्शयति - त्रस्यन्तीति त्रसा:- तेजोवायू द्वीन्द्रियादयश्च तथा ये च स्थावराः - स्थावरनामकर्मोदयवर्तिनः पृथिव्य वनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तका पर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, 'सदा' सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः | परिव्रजेत् - परिसमन्ताद्वजेत् संयमानुष्ठायी भवेत्, भावप्राणातिपातविरतिं दर्शयति - स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावदुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपि मनसाऽपि न मङ्गुलं चिन्तयेद्, 'अविकम्पमानः संयमादचलन् सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्र कालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्, एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति ॥१४॥ गुरोरन्तिके वसतो विनयमाह सूत्रमर्थं तदुभयं वा विशिष्टेन - प्रष्टव्य कालेनाचार्यादेरवसरं ज्ञात्वा प्रजायन्त इति प्रजा - जन्तवस्तासु प्रजासु-जन्तुविषये चतुर्दशभूतग्रामसंबद्धं कश्चिदाचार्यादिकं सम्यगितं - सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छेदिति । स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयति-मुक्तिगमनयोग्यो भव्यो द्रव्यं राग१सर्वज्ञप्रणीतागमोक्तपदार्थसंभवस्य सर्वज्ञसंभवस्येति वा । २ शत्रोरुपकारे बाह्ये वा दुरायतिके स्वस्य, अन्यथोपकारे द्वेषासंभवात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy