SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ १४ ग्रन्थाध्ययनं. सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥२४७॥ द्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य-वीतरागस्य तीर्थकरस्य वा वृत्तम्-अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षा णः सपर्ययाऽयं माननीयो भवति । कथमित्याह-'तद्' आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुं शीलमस्य श्रोत्रकारी-यथोपदेशकारी आज्ञाविधायी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत्-चेतसि व्यवस्थापयेत् , व्यवस्थापनीयं दर्शयति-'संख्याय' सम्यक् ज्ञाखा 'इम' मिति वक्ष्यमाणं केवलिन इदं कैवलिकं-केवलिना कथितं समाधि-सन्मार्ग सम्यग्ज्ञानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्-विविक्तं हृदये पृथग्व्यवस्थापयेदिति ॥१५॥ किंचान्यत्-'अस्मिन् गुरुकुलवासे निवसता यच्छ्रुतं श्रुखा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितं तसिन् समाधिभूते मोक्षमार्गे सुष्टु स्थिखा 'त्रिविधेनेति मनोवाकायकर्मभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानतस्त्राणकरणशीलो वा | तस्य खपरत्रायिणः, एतेषु च समितिगुत्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवति-अशेषद्वन्द्वोपरमो भवति तथा निरोधम्अशेषकर्मक्षयरूपम् 'आहुः तद्विदः प्रतिपादितवन्तः, क एवमाहुरित्याह-त्रिलोकम् ऊर्ध्वाधस्तिर्यग्लक्षणं द्रष्टुं शीलं येषां ते | त्रिलोकदर्शिनः-तीर्थकृतः सर्वज्ञास्ते 'एवम्' अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा 'आचक्षते प्रतिपादयन्तीति । एतदेव समितिगुप्त्यादिकं संसारोत्तारणसमर्थ ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं (न) 'प्रमादसझं मद्यविषयादिक संवन्धं विधेयखेन प्रतिपादितवन्तः॥१६॥ किश्चान्यत्निसम्म से भिक्खु समीहिय, पडिभाणवं होइ विसारए य । आयाणअट्ठी वोदाणमोणं, | ॥२४७|| dan Education International For Personal & Private Use Only www.jainelibrary.org.
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy