________________
टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमावाधया किश्चित्धर्मसंबद्धं ब्रूयात , कि परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयति-'एकस्य' असहायस्य जन्तोः शुभाशुभसहायस्य 'गतिः' गमनं पर-| लोके भवति, तथा आगतिः-आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च-"एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् ।। | जायते म्रियते चैक, एको याति भवान्तरम् ॥१॥" इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एत-18 द्विगणय्य मुनीनामयं मौनः-संयमस्तेन तत्प्रधानं वा ब्रूयादिति ॥ १८ ॥ किश्चान्यत् – 'स्वयम् आत्मना परोपदेशमन्तरेण 'समेत्य' ज्ञाखा चतुर्गतिकं संसारं तत्कारणानि च मिथ्याखाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षं तत्कारणानि च सम्यग्दर्शनज्ञानचारित्राण्येतत्सर्व खत एवावबुध्यान्यस्माद्वाऽऽचार्यादेः सकाशाच्छुखाऽन्यसै मुमुक्षवे 'धर्म' श्रुतचारि-16 त्राख्यं भाषेत, किंभूतं ?-प्रजायन्त इति प्रजाः-स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्म ब्रूयादिति । | उपादेयं प्रदर्य हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्याखाविरतिप्रमादकपाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त इति सनिदानाः प्रयुज्यन्त इति प्रयोगा-व्यापारा धर्मकथाप्रबन्धा वा ममासात्सकाशाक्किश्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽशंसापास्तांचारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा-कुतीर्थिकाः सावद्यानुष्ठानरता निःशीला निव्रताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्घट्टनया मर्मवेधिनः सुधीरधर्माणो वाक्कण्टकान् 'न सेवन्ते न बुवत इति ॥१९॥ किश्चान्यत्-केषाश्चिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां खदर्शनाऽऽग्रहिणां 'तर्कया' वितर्केण स्वमतिपर्यालोचनेन 'भावम् अभिप्रायं दुष्टान्तःकरणवृत्तिखमबुवा कश्चित्साधुः श्रावको वा
se
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org