________________
१३ याथा तथ्याध्य०
मूत्रकृताङ्गं शीलाङ्काचाीयवृचियुतं
॥२३८॥
यथावस्थितो धर्मः-श्रुतचारित्राख्यो येन स तथा, स चैवंभूतः कचिदवसरे ग्राम नगरमन्यद्वा मडम्बादिकमनुप्रविश्य भिक्षार्थ-18 मसावुत्तमधृतिसंहननोपपन्नः सन्नेषणां-गवेषणग्रहणैषणादिकां 'जानन्' सम्यगवगच्छन्ननेषणांच-उद्गमदोषादिकां तत्परिहार | विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा 'अननुगृद्धः' अनध्युपपन्नः सम्यग्विहरेत् , तथाहि-स्थविरकल्पिका द्विचखारिंशद्दोषरहितां भिक्षां गृह्णीयुः, जिनकल्पिकानां तु पञ्चखभिग्रहो द्वयोर्ग्रहः, ताश्चेमाः-'संसहमसंसट्ठा उद्धड तह होति अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥' अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा खनेषणेत्येवमेषणानेषणाभिज्ञः कचित्प्रविष्टः सन्नाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति ॥१७॥ तदेवं भिक्षोरनुकूलविषयोपलब्धिमतोऽ| प्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवंभावयुक्ततया च मृतकल्पदेहस्य सुदृष्टधर्मण एषणानेषणाभिज्ञस्यानपानादाव| मूर्छितस्य सतः कचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्ष्यात् सा चापनेतव्येत्येतदाह-महामुनेर| प्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे समुत्पद्यत तां चोत्पन्नामसौ भिक्षुः संसारखभावं परिगणय्य तिर्यनारकादिदुःखं चोत्प्रेक्षमाणः स्वल्पं च संसारिणामायुरित्येवं विचिन्त्याभिभवेद् , अभिभूय चासावेकान्त| मौनेन व्यागृणीयादित्युत्तरेण संबन्धः, तथा रतिं च 'असंयमें सावधानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च संयमोद्युक्तो भवेदिति । पुनः साधुमेव विशिनष्टि-बहवो जनाः-साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एव चरति तच्छीलश्चैकचारी, स च प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात् , स च बहुजन एकाकी वा केनचित्प१ संसृष्टाऽसंसृष्टा उद्धृता तथा भवत्यल्पलेपा च । उद्गहीता प्रगृहीता उज्झितधर्मा च सप्तमिका ॥१॥
cिedeoekeseeeeeeeeeeeeeeeeA
॥२३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org