SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ तया गाववादीत्यर्थः तथा प्रतिभा प्रतिसादानसमर्थः यदिवा धर्मकथावशारदः' अर्थग्रहण भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षुः साधुः, तथा सुष्टु साधु-शोभनं हितं मितं प्रियं वदितुं शीलमस्येत्य-12 सौ सुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथा प्रतिभा प्रतिभानम्-औत्पत्तिक्यादिबुद्धिगुणसमन्वितखेनोत्पन्नप्रतिभखं तत्प्रतिभानं | || विद्यते यस्यासौ प्रतिभानवान्-अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कं च देवताविशेषं || प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासन्नप्रतिभतया ( ऽवेत्य ) यथायोगमाचष्टे, तथा 'विशारदः' अर्थग्रहणसमर्थो बहुप्रकारार्थकथनसमर्थो वा, चशब्दाच श्रोत्रभिप्रायज्ञः, तथा आगाढा–अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा-बुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्टु विविधं भावितो-धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभि-18 गुणैः शोभनः साधुर्भवति, यश्चभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात् , तद्यथा-अहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव च न | मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मो|त्कर्षवानन्यं जनं खकीयया प्रज्ञया 'परिभवेत् अवमन्येत, तथाहि-किमनेन वाकुण्ठेन दुर्दुरूढेन कुण्डिकाकासकल्पेन खमूचिना कार्यमस्ति ? कचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम्-"अन्यैः स्वेच्छारचितानर्थविशेपान् श्रमेण विज्ञाय । कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण ॥१॥" इत्यादि ॥१३॥ साम्प्रतमेतदोषाभिधित्सयाऽऽह'एवम्' अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वन्नशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौ 'समा- धिं' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासौ परमार्थोदन्वतः प्लवते, क एवंभूतो भवतीति || दर्शयति-यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः खप्रज्ञया भिक्षुः 'उत्कर्षेद्' गर्व कुर्यात् , नासौ समाधि secticestreatreeseeeeeeeseaks Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy