SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥२३१॥ तिकृत्वा 'कोपयति' दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि व्याचष्टे - कृतं कृतमित्येवं ब्रूयात्, वक्ति च-न हि मृत्पिण्डक्रियाका - ल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं 'छेकवादी' निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालिनाशं' जमालिनिह्नववत् सर्वज्ञमतविकोपको 'विनयति' अरहट्टघटीयन्त्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति वराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तस्वतः) तासां च क्रियाणां क्रियाकाल निष्ठाकालयोरेककालखात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो लोके, तद्यथा - अद्यैव देवदत्ते निर्गते कान्यकुब्जं देवदत्तो गत इति व्यपदेशः, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थ कोऽयं (इति) व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदर्पाध्मातः सर्वज्ञव चनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूद्यमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्षं विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तस्मादात्मोत्कषःअहमेव सिद्धान्तार्थवेदी नापरः कश्चित् मत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः - त्याज्यो 'यतिजनेन' साधुलोकेन, अपरोऽपि | ज्ञानिना जात्यादिको मदो न विधेयः किं पुनर्ज्ञानमदः १ तथा चोक्तम् - "ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः १ । अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते १ ॥ १ ॥ " गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं | सूत्रमुच्चारणीयं तच्चेदम्— Jain Education International For Personal & Private Use Only १३ याथा तथ्याध्य० ॥२३१॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy