SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ दितत्त्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानं, विनयतथ्यं द्विचखारिंशद्भेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्विधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह – 'यथा' येन प्रकारेण यथा पद्धच्या सूत्रं व्यवस्थितं ' तथा ' तेनैव प्रकारेण 'अर्थो' व्याख्येयोऽनुष्ठेयश्च, एतदर्शयति- 'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणम् अतो यथा सूत्रं तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वार्धस्यैव भावार्थ गाथापश्चार्धेन दर्शयितुमाह-यद्वस्तुजातं ' प्रकृतं ' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तस्मिन्नर्थे 'सति' विद्यमाने यथावद्व्याख्यायमाने संसारोत्तारणकारणत्वेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते खर्थे 'असति' अविद्यमाने संसारकारणखेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति - यदि [ यथा ] सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थो यदि भवति व्याख्यायते ऽनुष्ठीयते च संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति खर्थेऽक्रियमाणे च संसारका| रणखेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः । एतदेव दृष्टान्तगर्भं दर्शयितुमाह - आचार्या :- सुधर्मखामि - जम्बूनामप्रभवार्यरक्षिताद्यास्तेषां प्रणालिका - पारम्पर्यं तेनागतं यद्व्याख्यानं -सूत्राभिप्रायः, तद्यथा - व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदर्पाध्मातमानसो मिथ्यातोपहतदृष्टितया 'छेकबुद्ध्या' निपुणबुद्ध्या कुशाग्रीयशेमुषीकोऽहमि १ ज्ञानेऽष्टौ दर्शने चारित्रे च तपसि विनयस्य विधेयखादेकादश औपचारिके सप्तभेदरूपे यद्वा क्रमेण पश्चैकसप्तदशद्वादश सप्तमेदरूपे । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy