________________
आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्सं जातं । सओ अ धम्मं असओ असलं, संति असंतिं करिस्सामि पाउं ॥ १ ॥ अहो य राओ अ समुट्टिएहिं, तहागएहिं पंडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥ २ ॥ विसोहियं ते अणुकाहयंते, जे आतभावेण वियागरेज्जा । अट्टाणिए होइ बहूगुणाणं, जे णाणसंकाइ मुसं वदेज्जा ॥ ३ ॥ जे यावि पुट्ठा पलिउंचयंति, आयाणमट्टं खलु वंचयित्ता (यन्ति ) । असाहुणो ते इह साहुमाणी, मायणि एसंति अनंतघातं ॥ ४ ॥
अस्य चानन्तरसूत्रेण सहायं संबन्धः, तद्यथा - वलयाविमुक्तेत्यभिहितं भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन संबन्धेनायातस्यास्य सूत्रस्य व्याख्या प्रतन्यते - यथातथाभावो याथातथ्यं तत्त्वं परमार्थः, तच्च परमार्थचि - न्तायां सम्यग्रज्ञानादिकं, तदेव दर्शयति- 'ज्ञानप्रकार' मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तत्र सम्यग्दर्शनम् - औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, | एतत्सम्यग्ज्ञानादिकं 'पुरुषस्य ' जन्तोर्यजातम् - उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारि| णस्तद्दोषांश्चाविर्भावयिष्यामि, 'नानाप्रकारं ' वा विचित्रं पुरुषस्य स्वभावम् – उच्चावचं प्रशस्ता प्रशस्तरूपं प्रवेदयिष्यामि । नाना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org