SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ गवादित्वं कमानाभ्युपगम्यते , तदुक्तपदार्थानामेवाघटमानखात् , तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनह ष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेलाभासच्छलजातिनिग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय18 (निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्दा, तत्रेन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तदत्रेन्द्रियार्थयोर्यःसंबन्धस्तस्माद्यदुत्पन्नं, नाभिव्यतं, ज्ञानं, न सुखादिकम् , अव्यपदेश्यमिति व्यपदेश्यले शाब्दप्राप्तेः, अव्यभिचारि तद्धि द्विचन्द्रज्ञानवद्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षता न बुध्य(युज्य)ते, तथाहि-यत्रात्मार्थग्रहणं प्रति साक्षायाप्रियते तदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम् , एतचापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात् , न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति विधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्ता जगतीति यदिवा देवदत्तादौ गतिपूर्विका स्थानात् स्थानान्तरावाप्ति दृष्ट्वाऽऽदित्येपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया विना कारणस्य कार्य प्रति व्यभिचा. रात्, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा-भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम्-"अन्यथाऽनुपपन्नख, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नख, यत्र तत्र त्रयेण किम् ? ॥१॥" अपिचप्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति । प्रसिद्धसाधात्साध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सज्ञास१ जनानां यात्मा ज्ञानखरूप इतीन्द्रियादिनाऽभिव्यज्यते ज्ञानं तेषां तूत्पद्यते । २ सुखस्यापीन्द्रियार्थोत्पन्नत्वात् । । इन्द्रियार्थीत्थं । dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy