________________
Sa
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुत
॥२२५॥
शरीरन्द्रियार्थबुद्धिमनःप्रवृतिएवासाभिरिति, शरीर मा बुद्धिरित्येतच ज्ञान
ज्ञिसंबन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणवेन तत्रैवान्तर्भावात्पृथक्प्रमाणसमनुपपन्नमेव, अथ || १२ समवनास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्व प्रमाणं, किं तर्हि १, आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न || सरणाध्य. चाहद्यतिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति । किञ्च-सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः। नैयायिक(गुणश्च) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः,
तत्वनिरासः | सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् । प्रमेयं खात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे(स )च्छाद्वेषप्रयलसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवासाभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमसाभिरिति । उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवोपादानतयो(नेनो)पात्त एव । सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्ग मनः, तदपि द्रव्यमनः पौद्गलिकमजीवग्रहणेन गृहीतं, भावमनस्वात्मगुणखाजीवग्रहणेनेति । आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः, सापि पृथक्पदार्थतया नाभ्युपगन्तुं युक्ता, | तथाहि-प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माभिप्रायतया ज्ञानविशेषखाद्, आत्मानं दूषयतीति दोषः, तद्यथा-अस्यात्मनो नेदं शरीरमपूर्वम् , अनादिखादस्य, नाप्यनुत्तरम् , अनन्तखात्सन्ततेरिति, (शरीरे पूर्वतया सान्ततया वा)योऽयमात्मनोऽध्यव
॥२२५॥ |सायः स दोपो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः। प्रेत्यभावः-परलोकसद्भावोऽयमपि ससाधनो जीवाजीवग्रहणेनोपात्तः, फलमपि सुखदुःखोपभोगात्मकं, तदपि जीवगुण एवान्तर्भवतीति न पृथगुपदेष्ट
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org