SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽकाशम् , आदिमत्प्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तेः, व्यापकनिवृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात् , यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृकं | दृष्ट, यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम् , आदानादेयसद्भावात् , इह.यत्र यत्राऽऽदानादेयसद्भावस्तत्र तत्र विद्य|मान आदाता ग्राहको दृष्टः, यथा.संदंशकायस्पिण्डयोस्तद्भिन्नोऽयस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता-ग्राहकः स तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेषविपरीतसाधनत्वेन विरुद्धाशङ्का न विधेया, संसारिण आत्मनः कर्मणा सहान्योन्यानुबन्धतः कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सच्चा औपपातिका' इति, तदप्ययुक्तं, यतस्तदहर्जातवालकस्यं यः स्तनाभिलापः सोन्याभिलाषपूर्वकः, अभिलाषत्वात् , कुमाराभिलाषवत् , तथा बालविज्ञानमन्यविज्ञानपूर्वकं, विज्ञानत्वात् , कुमारविज्ञानवत् , तथाहि-तदहर्जातबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति तावनोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति बालके विज्ञानलेशः, स चान्यविज्ञानपूर्वकः, तच्चान्यद्विज्ञानं भवान्तरविज्ञानं, तसादस्ति सत्त्व औपपातिक इति । तथा यदभिहितं, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यती'ति,तत्राप्ययमों-'विज्ञानघनो विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थायेति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणते भूतसमुदाये तद्द्वारेण खकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण || १नाधाणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थिति निषेधार्थमादिमत्वम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy