SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्ययवृचियुतं ॥ २१ ॥ कुर्वन्निति खतन्त्रः कर्ताऽभिधीयते, आत्मनश्चामूर्तखान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृलानुपपत्तिः, अत एव हेतोः कारयितृलमप्यात्मनोऽनुपपन्नमिति, पूर्वश्वशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुच्चयार्थः, ततश्वात्मा न स्वयं क्रियायां प्रवर्तते, नाप्यन्यं प्रवर्तयति, यद्यपि च स्थितिक्रियां मुद्राप्रतिविम्बोदयन्यायेन [ जपास्फटिकन्यायेनच ] भुजिक्रियां करोति तथाऽपि समस्त क्रियाकर्तृत्वं तस्य नास्तीत्येतद्दर्शयति- 'सव्वं कुव्वं ण विजइत्ति 'सर्वां' परिस्पन्दादिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तम्- “ अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यनिदर्शने" इति । 'एवम्' अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः, तुशब्दः पूर्वेभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं 'प्रगल्भिताः' प्रगल्भवन्तो धावन्तः सन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति यथा - "प्रकृतिः करोति, पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थं पुरुषश्वेतयते" इत्याद्यकारकवादिमतमिति ॥ १३ ॥ साम्प्रतं तञ्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह जे ते उ वाइणो एवं लोए तेसिं कओ सिया ? । तमाओ ते तमं जंति, मंदा आरंभनिस्सिया ॥ १४ ॥ तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एव' मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्तेतत्र यतैस्तावदुक्तम्- 'यथा न शरीराद्भिन्नोऽस्त्यात्मे' ति, तदसङ्गतं यतस्तत्प्रसाधकं प्रमाणमस्ति तचेदम् — विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात् इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकर्तृकं दृष्टं यथा घटः, यथा विद्यमानकर्तृकं Jain Education International For Personal & Private Use Only १ समयाध्ययने अकारक वादिख. ॥ २१ ॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy