SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च खाने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्थम् , एवमा|त्मानमन्तरेण तद्विज्ञानं भूतसमुदाये प्रादुर्भवतीति, तथा यथाऽऽदर्श स्वच्छखात्प्रतिबिम्बितो बहिःस्थितोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः स्वखरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणती सत्यां पृथगसन्नेव तथा भ्रान्ति समुत्पादयतीति । अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, अस्माभिस्तु सूत्राऽऽदर्शेषु चिरन्तनटी कायां | चादृष्टखानोल्लिङ्गितानीति । ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये न स्तः, तत्कथमेतजगद्वैचित्र्यं घटते ?, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति, ? अत्रोच्यते, स्वभावात् , तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, | तच्च कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवति धूपाद्यामोदं च, अन्यसिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स ताग्विधावस्थाविशेष इत्येवं स्वभावाजगद्वैचित्र्यं, तथा चोक्तम्- "कण्टकस्य च IS तीक्ष्णलं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति तज्जीवतच्छरीरवादिमतं गतम् ॥१२॥ इदानीमकारकवादिमताभिधित्सयाऽऽह कुवं च कारयं चेव, सवं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगन्भिआ ॥ १३ ॥ seeeeeeeeeeeeeeeeeek JainEducation Hona For Personal & Private Use Only a w.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy