________________
रीवा.
सूत्रकृताङ्गं भवन्तीति तात्पर्यार्थः, तथाहि तदागमः-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ती"ति, १ समयाशीलाङ्का ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि
ध्ययने तचाीय- धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेभिव्यज्यते वा, तेभ्यश्चाभिन्न
जीवतच्छ. त्तियुतं
॥॥ इत्ययं विशेषः ॥ ११॥ एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह॥२०॥
नत्थि पुण्णे व पावे वा, नत्थि लोए इतो वरे।सरीरस्स विणासेणं, विणासो होइ देहिणो॥ १२॥ | _ 'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात् , तदभावाच्च नास्ति 'अतः' असाल्लोकात् 'पर' अन्योलोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः कारणमाह-'शरीरस्य' कायस्य 'विनाशेन' भूतविघटनेन 'विनाशः' अभावो 'देहिन' आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तसादात्मा परलोकं गला पुण्यं | पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावाचद्धर्मयोः पुण्यपापयोरप्यभाव इति, असिंश्चार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-यथा जलबुदुदो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति, तथा यथा कदलीस्तम्भस्य | बहिस्वगपनयने क्रियमाणे खमात्रमेव सर्व नान्तः कश्चित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावन्मानं विहाय नान्तः ॥२०॥ सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, यथा वालातं भ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोपि १च भिन्न प्र.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org