SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ तिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना । यश्च 'शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयाद् 'अशाश्वतं' वानित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात् , चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा ह्यागमः-'णेरइया दवट्टयाए सासया भावट्टयाए असासया" एवमन्येऽपि तिर्यगादयो द्रष्टव्याः । अथवा निर्वाण-12 शाश्वतं संसारः-अशाश्वतस्तद्गतानां संसारिणां खकृतकर्मवशगानामितश्चेतश्च गमनादिति । तथा 'जातिम्' उत्पत्तिं नारक-1 तिर्यअनुष्यामरजन्मलक्षणां 'मरणं च' आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सत्त्वास्तेषामुपपातं यो जानाति, स च नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंशतिविधेति । मरणं-पुनस्तिर्यमनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति ॥ २०॥ किश्च अहोऽवि सत्ताण विउद्दणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निजरं च, सो भासिउमरिहइ किरियवादं ॥ २१ ॥ सद्देसु रूवेसु असज्जमाणो, गंधेसु रसेसु अदुस्समाणे । णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ॥२२॥ त्तिबेमि । इति श्रीसमवसरणाध्ययनं द्वादशमं समत्तं ॥ (गाथाग्र० ५६८) १ नैरयिका द्रव्यार्थतया शाश्वता भावार्थतया अशाश्वताः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy