SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायव चियुतं ॥२१७॥ प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृद्ध्या प्रवर्धमानः संपूर्णावस्था(स्थां)यां यावदध्यक्षेणैवोपलक्ष्यते । तथा सरितश्च १२ समव|प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते । वायवश्च वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते । यच्चोक्तं भवता-सर्वमिदं | सरणाध्यक मायाखमेन्द्रजालकल्पमिति, तदसत्, यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात् , यश्च मायां 8 प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यले तयोरेवाभावात्कुतस्तव्यवस्थितिरिति ?, तथा स्वप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्थाप्यते तस्या अभावे तस्याप्यभावः सात्ततः स्वप्नमभ्युपगच्छता भवता तन्नान्तरीयकतया जाग्रदवस्थाऽवश्यमभ्युपगता भवति, तदभ्युपगमे च सर्वशून्यबहानिः, न च स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनुभूतादेः सद्भावात् , तथा चोक्तम्-"अणुहूयदिट्ठचिंतिय सुयपयइवियारदेवयाऽणूया । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥१॥" इन्द्रजालव्यवस्थाऽप्यपरसत्यले सति भवति, तदभावे तु केन कस्य चेन्द्रजालं व्यवस्थाप्येत ?, द्विचन्द्रप्रतिभासोऽपि रात्रौ सत्यामेकसिश्च चन्द्रमस्युपलभकसद्भावे च घटते न 8|सर्वशून्यले, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्र| तिपाद्यस्यैवार्थस्याभावो न प्रत्येकपदवाच्यार्थखेति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति किं सत्र शशमस्तकसमवायि विषाणं नास्तीत्येतत्प्रतिपाद्यते, तदेवं संबन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्वभाव इति, एवमन्यत्रापि द्रष्टव्यमिति । तदेवं विद्यमा-| नायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति ॥८॥ अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवे-18 ॥२१७।। दिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनत्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्त१ अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः । स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥१॥२ वेन्द्रजालं प्र० । BOSS0000000000099999 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy