________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृचियुत
॥२०८॥
तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाचेति, पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुप-||
१२ समवशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपश्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः
|सरणाध्य. सान्निपातिकभेदाः षड् भवन्ति, एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पश्चदशधा प्रदेशान्तरेऽभिहिता इति । तदेवं षड्विधे भावे भावानां भावसमवसरणं-भावमीलनमभिहितम् , अथवा अन्यथा भावसमवसरणं नियुक्तिकृदेव दर्शयति-क्रियां-जीवादिपदार्थोऽस्तीत्या-1 क्रियादिदिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो-ज्ञाननिह्नववादिनः तथा 'वैनयिका' वादिनांवा विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एपां चतुर्णामपि सप्रभेदानामाक्षेपं कुखा यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति,
समवसरणं | एतच्च खयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमाविष्कुर्वन्नाह-जीवा-18 | दिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येषां ते अस्तीति क्रियावादिनः, ते चैववादिखान्मिथ्यादृष्टयः, तथाहि-यदि जीवोऽस्त्येवे वेऽस्तिखमेवे त्येवमभ्युपगम्यते, ततःसावधारणत्वान्न कथश्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद् , एवं च नाने जगत् स्यात् , नचैतदृष्टमिष्टं वा । तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनान्मिथ्यादृष्टय एव, तथाहि-एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच सर्वास्तित्वमनिवारितमिति । तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्यारष्टय एव, तथाहि-| ॥२०८॥ अज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुं पार्यते, तदभिधानाचावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेव केवलात्स्वर्गमोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । एषां च क्रियावाद्यादीनां
dan Education International
For Personal & Private Use Only
www.jainelibrary.org.