SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ seae08092000ceae002029290800 स्वरूपं तन्निराकरणं चाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते । साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह- . असियसयं किरियाणं अकिरियाणं च होइ चुलसीती । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ ११९॥ & तेसि मताणुमएणं पन्नवणा वणिया इहऽज्झयणे । सम्भावणिच्छयत्थं समोसरणमाहु तेणं तु ॥१२०॥ सम्मद्दिट्टी किरियावादी मिच्छा य सेसगा वाई । जहिऊण मिच्छवायं सेवह वायं इमं सचं ॥ १२१॥ क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्थाः परिपाच्या स्थाप्यन्ते, तदधः स्वतः परत इति भेदद्वयं, ततोऽप्पधो नित्यानित्यभेदद्वयं, ततोऽप्यधस्तात्परिपाट्या कालखभावनियतीश्वरात्मपदानि पञ्च व्यवस्थाप्यन्ते, 'जीवः ततश्चैवं चारणिकाप्रक्रमः, तद्यथा-अस्ति जीवः खतो नित्यः कालतः, तथाऽस्ति जीवः खतो नित्यः कालत एव, स्वतः परतः एवं परतोऽपि भङ्गकद्वयं, सर्वेऽपि च चखारः कालेन लब्धाः , एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर नित्यः अनित्यः एव लभन्ते, ततश्च पश्चापि चतुष्कका विंशतिर्भवन्ति, साऽपि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ || कालः स्वभावः नियतिः ईश्वर आत्मा प्रत्येकं विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं 18 भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, तद्यथा-जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्यं, ततोऽप्यधः कालयदृच्छानियतिखभावे श्वरा| त्मपदानि पड् व्यवस्थाप्यानि, भङ्गकानयनोपायस्वयं-नास्ति जीवः स्वतः कालतः, तथा नास्ति जीवः परतः कालतः, dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy