SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ मवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिविधं, सचित्तमपि द्विपदचतुष्पदापदभेदात्रिविधमेव, तत्र द्विपदानां साधुप्रभृतीनां तीर्थकृज्जन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृक्षादीनां खतो नास्ति समवसरणं, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु द्यणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति । क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति । इदानीं भावसमवसरणमधिकृत्याहभावानाम् औदयिकादीनां समवसरणम्-एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धा कषायाश्चतुर्विधाः एवं लिङ्गं त्रिविधं, मिथ्याखाज्ञानासंयतखासिद्धखानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन पविधा भवन्ति । औपशमिको द्विविधः सम्यक्खचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाचतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदात्रिविधं, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धि नलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्वचारित्रसंयमासंयमाः प्रत्येकमेकप्रकारा इति । क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलद-18 र्शनं दानादिलब्धयः पञ्च सम्यक्वं चारित्रं चेति । जीवनभव्यखाभव्यखादिभेदात्पारिणामिकस्त्रिविधः । सान्निपातिकस्तु द्वित्रि| चतुष्पञ्चकसंयोगैर्भवति, तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्य-1|| रदृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात् , MS वधिदर्शनप्रकारः, तथा सानिपातिकाटिसम्य- १ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy