SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यांयत्रत्तियुतं ॥२०६॥ शविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तम् 'अनुसंधयेत्' वृद्धिमापादयेत् , तद्यथा-प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन ११ मार्गा ध्ययन (च)चारित्रं(च) वृद्धिमापादयेदिति, पाठान्तरं वा 'सद्दहे साधुधम्मं च' पूर्वोक्तविशेषणविशिष्टं साधुधर्म मोक्षमार्गखेन श्रद्दधीतनिःशङ्कतया गृह्णीयात् , चशब्दात्सम्यगनुपालयेच, तथा पापं-पापोपादानकारणं धर्म प्राण्युपमर्दैन प्रवृत्तं निराकुर्यात् , तथोपधानं तपस्तत्र यथाशक्त्या वीर्य यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति ॥३५॥ अथैवंभूतं भावमार्ग किं वर्धमानस्वाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह-ये बुद्धाः-तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ताः समतिक्रान्ताः ते सर्वेऽप्येवंभूतं भावमार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति, चशब्दाद्वर्तमानकालभाविनश्च संख्येया इति । न केवलमुपन्यस्तवन्तोऽनुष्ठितवंतश्चेत्येतदर्शयति-शमनं शान्तिः| भावमार्गस्तेषामतीतानागतवर्तमानकालभाविनां बुद्धानां प्रतिष्ठानम्-आधारो बुद्धवस्यान्यथानुपपत्तेः, यदिवा शान्तिः-मोक्षः स | तेषां प्रतिष्ठानम्-आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च (इति) गम्यते । शान्तिप्रतिष्ठानखे दृष्टान्तमाह-'भूतानां स्थावरजङ्गमानां यथा 'जगती' त्रिलोकी प्रतिष्ठानं एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठाना इति ॥ ३६ ॥ प्रतिपन्नभावमार्गेण च यद्विधेयं तदर्शयितुमाह ॥२०६॥ | अह णं वयमावन्नं, फासा उच्चावया फुसे । ण तेसु विणिहाणेज्जा, वाएण व महागिरी ॥ ३७॥ ॥|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy