SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ संवुडे से महापन्ने, धीरे दत्तेसणं चरे। निव्वुडे कालमाकंखी, एवं (यं) केवलिणो मयं ॥ ३८॥ तिबेमि । इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् ॥ ( गाथा ५४६) 'अर्थ' भावमार्गप्रतिपत्त्यनन्तरं साधुं प्रतिपन्नवतं सन्तं स्पर्शाः-परीषहोपसर्गरूपाः 'उच्चावचा' गुरुलघवो नानारूपा वा |'स्पृशेयु: अभिवेयुः, स च साधुस्तैरभिद्रुतः संसारखभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकूलैर्विहन्यात्, नैव संयमा|नुष्ठानान्मनागपि विचलेत् , किमिव ?, महावातेनेव महागिरिः-मेरुरिति । परीषहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा-कश्चिद्गोपस्तदहर्जातं तर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च, ततोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशाविहायूनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः। | शनैः परिषहोपसर्गजयं विधत्त इति ॥३७॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुक्तशेषमधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया 18 संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः-सम्यग्दर्शनज्ञानवान् , तथा धी:-बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा स! एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत् , तथा निर्वृत इव निर्वृतः कपा| योपशमाच्छीतीभूतः 'कालं' मृत्युकालं यावदभिकाङ्केच 'एतत् यत् मया प्राक् प्रतिपादितं तत् 'केवलिनः' सर्वज्ञस्य तीर्थकृतो मतं । | एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्खाम्याह । तदेतद्यत्त्वया मार्गस्वरूपं प्रश्नितं तन्मया न खमनीषिकया कथितं, किं तर्हि ?, केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३८ ॥ इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ॥ aesenticesesesesesearciseseet Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy