________________
| दृष्टान्तद्वारेण दर्शयितुमाह-यथेत्युदाहरणोपन्यासार्थः 'यथा' येन प्रकारेण 'ढङ्कादयः पक्षिविशेषा जलाशयाश्रया आमिषजीविनो|
मत्स्यप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानमातरौद्रध्यानरूपतयाऽत्यन्तकलुपमधर्म च भवतीति ॥ २७ ॥ दार्शन्तिकं दर्शयितुमाह| 'एव'मिति यथा ढङ्कादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तयायिनश्च कलुषाधमा भवन्ति एवमेव मिथ्यादृष्टयः श्रमणा 'एके' शाक्यादयोऽनार्यकर्मकारिखात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां-शब्दादीनां प्राप्तिं ध्यायन्ति तयायिनश्च कङ्का इव कलुषाधमा भवन्तीति ॥ २८ ॥ किश्च
सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती । उम्मग्गगता दुक्खं, घायमेसंति तं तहा ॥ २९॥ जहा आसाविणिं नावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयति ॥ ३०॥ एवं तु समणा एगे, मिच्छट्ठिी अणारिया। सोयं कसिणमावन्ना, आगंतारो महब्भयं ॥ ३१ ॥ इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिवए ॥३२॥ 'शुद्धम् अवदातं निर्दोष 'मार्ग' सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया 'विराध्य' दूषयित्वा 'इह' असिन्संसारे मो-17 क्षमार्गप्ररूपणप्रस्तावे वा 'एके' शाक्यादयः खदर्शनानुरागेण महामोहाकुलितान्तरात्मानो दुष्टा पापोपादानतया मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गेण-संसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता दुःखयतीति दुःखम्-अष्टप्रकारं कर्मासातोदयरूपं वा तहःखं घातं चान्तशस्ते तथा-सन्मार्गविराधनया उन्मार्गगमनं च 'एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः
Jain Education International
For Personal & Private Use Only
nelibrary.org