________________
सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुतं ॥२०४॥
शालिगोधूमादीनि, तथा 'शीतोदकम्' अप्रासुकोदकं, तांचोद्दिश्य तद्भक्तैर्यदाहारादिकं 'कृतं' निष्पादितं सत्सर्वमविवेकितया | ते शाक्यादयो 'भुक्त्वा' अभ्यवहृत्य पुनः सातर्द्धिरसगौरवासक्तमनसः संघभक्तादिक्रियया तदवाप्तिकृते आर्त ध्यानं ध्यायन्ति, ध्ययन न बैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तम्- "ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजनस्य च । यस्मिन्परिग्रहो दृष्टो, ध्यानं तत्र कुतः शुभम् ? ॥१॥" इति, तथा-"मोहस्यायतनं धृतरपचयः शान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परि| ग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" तदेवं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः? | इति । अपिच-ते तीथिका धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञा' अनिपुणाः, तथाहि-शाक्या मनोज्ञाहारवसतिशय्यासनादिकं | रागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्यन्ति, तथा चोक्तम्-'मणुण्णं भोयणं भुच्चे'त्यादि, तथा मांसं कल्किकमित्युपदिश्य | संज्ञान्तरसमाश्रयणानिर्दोष मन्यन्ते, बुद्धसङ्घादिनिमितं चारम्भं निर्दोषमिति, तदुक्तम् - "मंसनिवत्तिं काउं सेवइ दंतिकगति 81
धणिभेया । इय चइऊणारंभ परववएसा कुणइ बालो ॥१॥" न चैतावता तन्निर्दोषता, न हि लूतादिकं शीतलिकाद्यभिधाना|न्तरमात्रेणान्यथासं भजते, विषं वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशो-18 त्पादावभिदधतामनैपुण्यमाविष्करणीयं । तदेवं ते वराकाः शाक्यादयो मनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता
S २०४॥ मोक्षमार्गाख्याद्भावसमाधेरसंवृततया दूरेण वर्तन्त इत्यर्थः ॥ २६ ॥ यथा चैते रससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा
१ मांसनिवृत्तिं कृत्वा सेवते इदं कल्किकमिति ध्वनिभेदादेवं त्यक्लारम्भं परव्यपदेशात्करोति बालः ॥ १॥२ मधुरं विषे इत्युके
eeeeeeeeeeeeeee
dan Education International
For Personal & Private Use Only
Homjainelibrary.org