________________
ekeseakseseekerseakseseel
निश्चयेनायनं-विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यक्चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय |एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत | इति ३, तथा 'विधि रिति विधानं विधिः सम्यग्रज्ञानदर्शनयोयौंगपद्येनावाप्तिः ४, तथा 'धृति रिति धरणं धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति रिति शोभना गतिरस्सात् ज्ञानाच्चारित्राचेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषखादत्रैवान्त
र्भावोऽवगन्तव्यः ६, तथा 'हित मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं, तच्च सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्यमिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गले सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा 'सुख'मिति सुखहेतुखात्सुखम्-उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था ८, तथा 'पथ्य'मिति पथि-मोक्षमार्गे हितं पथ्यं, तच्च क्षपकश्रेण्यां पूर्वोक्तं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणिमस्तकावस्था, उपशान्तसर्वमोहावस्थेत्यर्थः १०, तथा निर्वृतिहेतुखानिवृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निवेतिसद्भावादितिभावः ११, तथा 'निर्वाण मिति घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः १२, तथा 'शिवं मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमनमिति १३, एवमेतानि मोक्षमार्गखेन किश्चिद्भेदाद् भेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एकार्थिका मोक्षमार्गस्येति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
कयरे मग्गे अक्खाए, माहणेणं मईमता ?। जं मग्गं उजु पावित्ता, ओहं तरति दुत्तरं ॥१॥
ekseeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org