________________
Rece
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१९७॥
सम्यग्ज्ञानं दर्शनं चारित्रं चेत्ययं त्रिविधोऽपि भावमार्गः 'सम्यग्दृष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा-यथावस्थितवस्तु| तत्त्वनिरूपणया प्रणीतस्तैरेव(च) सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्णः' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्त- ध्ययनं भा|मार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफलनिबन्धनखेन विशेषणार्थ इति ॥ स्वयथ्यानामपि पार्श्वस्थादीनां षड्जीवनिकायोपमर्द-| वमार्गाः कारिणां कुमार्गाश्रितवं दर्शयितुमाह-ये केचन अपुष्टधर्माणः शीतलविहारिणः ऋद्धिरससातगौरवेण 'गुरुकाः' मुरुकर्माण आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताश्च अपरेभ्यो 'मार्ग मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहिशरीरमिदमाचं धर्मसाधनमिति मला कालसंहननादिहानेश्चाधाकर्माद्युपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुनस्तीर्थिका इति ॥ प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह-तपः-सवाह्याभ्यन्तरं द्वादशप्रकारं तथा संयमः-सप्तदशभेदः पञ्चाश्रवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपःसंयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं 'सद्भाव परमार्थ जीवाजीवादिलक्षणं 'वदन्ति प्रतिपादयन्ति. किंभतं! सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं-पथ्यं ४ तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यमार्गज्ञाः 'सम्यग' अविपरीतखेन प्रणीतम् 'आहुः उक्तवन्त इति ॥ साम्प्रतं || सन्मार्गस्यैकार्थिकान् दर्शयितुमाह-देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्खावाप्तिरूपोऽव-13
॥१९७॥ गन्तव्यः १, तथा 'मार्ग' इति पूर्वमाद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यगज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा 'न्याय' इति | १ चारित्रा० प्र०।
dan Education International
For Personal & Private Use Only
www.jainelibrary.org