SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ | गृहम् - आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थ खादस्यापरमपि गृहादेरुरगवत्परकृतबिलनिवासित्वात्संस्कारं न कुर्यात्, अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराह - प्रजायन्त इति प्रजास्तासु तद्विषये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात्, एतदुक्तं भवति - प्रत्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारयंश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवा - प्रजाः - स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात' परित्यजेदिति ।। १५ ।। अपिच – ये केचन अस्मिन् लोके अक्रिय | आत्मा येषामभ्युपगमे तेऽक्रियात्मानः साङ्ख्याः, तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पठ्यते, तथा चोक्तम् - " अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि – अमूर्तखव्यापित्वाभ्यामात्मनोऽक्रियत्वमेव बुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियखे सति बन्धमोक्षौ न घटेते इत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि 'धूतं' मोक्षं तदभावम् (च) 'आदिशन्ति' प्रतिपादयन्ति ते तु पचनपाचनादिके स्नानार्थं जलावगाहनरूपे वा 'आरम्भ' | सावद्ये 'सक्ता' अध्युपपन्ना गृद्धास्तु लोके मोक्षैकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति' कुमार्गग्राहिणो न सम्यगवगच्छन्तीति ॥ १६ ॥ किञ्चान्यत् Jain Education International पुढो य छंदा इह माणवा उ, किरियाकिरीयं च पुढो य वायं । जायस्स बालस्स पकुव देहं पवडती वेरमसंजतस्स ॥ १७ ॥ आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे | अहो राओ परितप्पमाणे, अट्टेसु मूढे अजरामरेव ॥ १८ ॥ जहाहि वित्तं पसवो य For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy