SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आदानीयो-हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां-मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य मखर्थीयोऽर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्-प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितम्' असंयमजीवितं प्राणधारणं वा 'नाभिकावंति' नाभिलषन्तीति ॥ ३४ ॥ किश्चान्यत्-'अगृद्धः' अनध्युपपन्नोऽमृञ्छितःक-शब्दस्पर्शेषु मनोज्ञेषु आद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं, तथेतरेषु वाद्विष्ट इत्यपि वाच्यं, तथा 'आरम्भेष' सावद्यानुष्ठानरूपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह–'सर्वमेतद् अध्ययनादेरारभ्य प्रति ध्यत्वेन यत् लपितम्-उक्तं मया बहु तत् 'समयादू' आहेतादागमादतीतमतिक्रान्तमितिकृखा प्रतिषिद्धं, यदपि च विधिद्वारे-18 शणोक्तं तदेतत्सर्व कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपि च तैः कुतीर्थिकैर्बहु लपितं तदेतत्सर्व समयातीतमितिकृता नानुष्ठेयमिति ॥ ३५॥ प्रतिषेध्यप्रधाननिषेधद्वोरण मोक्षाभिसन्धानेनाह–अतिमानो महामानस्तं, चशब्दात्तत्सहचरितं क्रोधं च, तथा मायां चशब्दात्तत्कार्यभूतं लोभं च, तदेतत्सर्वं 'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् , ISI तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्यग् ज्ञाला संसारकारणत्वेन परिहरेत् , परिहत्य च 'मुनिः साधुः 'निर्वाण-101 म्' अशेषकर्मक्षयरूपं विशिष्टाकाशदेश वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् 18|॥३६ ॥ समाप्तं धर्माख्यं नवममध्ययनमिति ॥ Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy