________________
सूत्रकृताङ्गं शीलाङ्काचार्ययवृतियुतं
॥१८५॥
| के ज्ञानिनस्तपखिनो वेत्याह- 'वीराः ' कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया बुद्ध्या राजन्तीति वा धीरा ये केचनासन्नसिद्धिगमनाः, आसो - रागादिविप्रमुक्तस्तस्य प्रज्ञा - केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञोक्तान्वेषिण इतियावत्, यदिवा - आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञखा (प्रज्ञा) न्वेषिण आत्महि - तान्वेषिण इत्यर्थः, तथा धृतिः - संयमे रतिः सा विद्यते येषां ते धृतिमन्तः, संयमधृत्या हि पश्च महाव्रतभारोद्वहनं सुसाध्यं भवतीति, तपः साध्या च सुगतिर्हस्तप्राप्तेति, तदुक्तम् - " जैस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा । जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं ॥ १ ॥” तथा जितानि - वशीकृतानि स्वविपयरागद्वेषविजयेनेन्द्रियाणि – स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रूषमाणाः शिष्या गुरवो वा शुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः ॥ ३३ ॥ यदभिसंधायिनः पूर्वोक्तविशेषणविशिष्टा भवन्ति तदभिधित्सुराह - 'गृहे' गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् 'दीवं' ति 'दीपी दीप्तौं' दीपयति — प्रकाशयतीति | दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा - द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतं दीपं द्वीपं वा गृहस्थभावे 'अपश्यन्तः' अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणला भेनैवम्भूता भवन्तीति दर्शयति- ' नराः पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामप्येतद्गुणभाक्वं भवति, अथवा | देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणामादानीया - आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदिवा१ यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिस्सुलभा । येऽधृतिमन्तः पुरुषास्तपोऽपि खल दुर्लभं तेषां ॥ १ ॥
Jain Education International
For Personal & Private Use Only
९ धर्माध्ययनं •
॥ १८५ ॥
www.jainelibrary.org