________________
seeeeeeeeeeeeeeeeeeeea
णेन करोति ?, न तावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पार्यते, यतस्तत्प्रत्यक्ष प्रवर्तमानं वा तनिषेधं विदध्यानिवर्तमानं वा?, न तावत्पवर्तमानं, तस्याभावविषयखविरोधात् , नापि निवर्तमानं, यतस्तच्च नास्ति तेन च प्रतिपत्तिरित्यसंगतं, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्यापि (वि)निवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिः संभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति ?, तदेवं खर्गादेः प्रतिषेधं कुर्वता चार्वाकणावश्यं प्रमाणान्तरमभ्युपगतं । तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम् , अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकेणेत्यलमतिप्रसङ्गेन । तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति, तेनात्मा सेत्स्यति, किं पुनस्तदिति चेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत् , चक्षुरिन्द्रियं हि न साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या खनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारणचैतन्यगुणोपलब्धेरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतखादवसेयं । तथा | अस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात् , पञ्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत् , तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थमरणात, गवाक्षोपरमेऽपि तद्द्वारोपलब्धार्थसतदेवदत्तवत् , तथा अर्थापत्याऽप्यात्माऽस्तीत्यवसीयते, तथाहि सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सद्भाव इति, अतः सामर्थ्यादवसीयते-अस्ति भूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति, तदेवं प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यपत्तिरभ्यूह्या, तस्यास्विदं लक्षणम्-प्रमाणषट्वविज्ञातो, यत्रार्थो नान्यथाभवन् । अदृष्टं कल्प१ चार्वाक्दर्शित० । २ संसाध्यते प्र० ।
यादीनां क्रियाणां समद्धःखेळादेपश्यनादकियाथा अर्थापत्या।
Jain Education
For Personal & Private Use Only
ICORainelibrary.org