________________
मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनो-लोभस्तं, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलवात् स्थण्डिलवद्भवति स स्थण्डिल:-क्रोधः, यस्मिंश्च सत्यूर्व श्रयति जात्यादिना दध्मातः पुरुष उत्तानीभवति स उच्छ्रायो-मानः, छान्दसखानपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुखात् तत्कार्यस्यापि मानस्य बहुखमतो बहुवचनं, चकाराः खगतभेदसंसूचनार्थाः समुच्चयार्था वा, धूनयेति प्रत्येक क्रिया योजनीया, तद्यथा-पलिकुञ्चनं-मायां धूनय धूनीहि वा, तथा भजनं
लोभ, तथा स्थण्डिलं-क्रोधं, तथा उच्छ्रायं-मानं, विचित्रखात् सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा-रागस्य दुस्त्य18 जखात् लोभस्य च मायापूर्वकखादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह-एतानि 8
पलिकुञ्चनादीनि असिन लोके आदानानि वर्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥११॥ पुनरप्युत्तरगुणानधिकृत्याह-धावनं-प्रक्षालनं हस्तपादवस्त्रादे रञ्जनमपि तस्यैव, चकारः समुच्चयार्थः, एवकारोऽवधारणे, तथा | बस्तिकर्म-अनुवासनारूपं तथा 'विरेचनं' निरूहात्मकमधोविरेको वा वमनम्-ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्य-12 दपि शरीरसंस्कारादिकं यत् 'संयमपलिमन्थकारि' संयमोपघातरूपं तदेतद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत , ॥ १२॥ अपिचगंधमल्लसिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थिकम्मं च, तं विजं परिजाणिया ॥ १३ ॥ १ निरूहो निश्चिते तर्के बस्तिभेदे इति हैमः ।
ce
Jain Education International
For Personal & Private Use Only
aniww.janelibrary.org