________________
eeeeeeeeeeeeeees
तथाभतं 'शोक' संतापं 'त्यक्त्वा ' परित्यज्य श्रोतो वा-मिथ्याखाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा-'चिच्चा णऽणंतगं सोयं' अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्षः' पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि-समन्तात् संयमानुष्ठाने 'व्रजेत् परिव्रजेदिति, तथा चोक्तम्-"छलिया अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होयत्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसागरे घोरे । भोगेहि निरवयक्खा तरंति संसारकंतारं ॥२॥” इति ॥७॥ स एवं प्रबजितः सुव्रतावस्थितात्माऽहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह-'पुढवी उ' इत्यादि श्लोकद्वयं, तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिनाः तथाऽप्रकायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह–'तृणानि' कुशवच्चकादीनि 'वृक्षाः' चूताशोकादिकाः सह बीजैवर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पश्चापि । कायाः षष्ठत्रसकायनिरूपणायाह-अण्डाजाता अण्डजाः-शकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाताः पोतजा-हशस्तिशरभादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेर्जाता रसजास्तथा संखेदाजाताः संखेदजा-यूकामत्कुणादयः 'उद्भिज्जाः' खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ॥८॥
.१ छलिता अपेक्षमाणा निरपेक्षमाणा गता अविनेन तस्मात्प्रवचनसारे (ज्ञाते) निरपेक्षेण भवितव्यम् ॥ १॥ २ भोगानपेक्षमाणाः पतन्ति संसारसागरे |घोरे । भोगेषु निरपेक्षास्तरन्ति संसारकान्तारं ॥१॥ ३ बन्धका०प्र० ।
200020201290090sasraemar202010ce
Jain Education International
For Personal & Private Use Only
www.janelibrary.org