SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ नायकल्पैः कृतमनुष्ठित पापभोगपरिहारेणेति भावः, यदप्यात्मानं मनोवाकायैः कृतकारितानुमतिभिश्च नवकेन भेदेनातिक्रमं न कुर्यात् , तथा सर्वतः-सबाह्याभ्यन्तरतः संघृतो गुप्तः तथा इन्द्रि| यदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुष्ठूयुक्तः सम्यग्विस्रोतसिकारहितः 'आहरेत्' आददीत-गृह्णीयादित्यर्थः ॥ २०॥ किश्चान्यत्कडं च कज्जमाणं च, आगमिस्सं च पावगं । सवं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१ ॥ जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होइ सवसो ॥ २२ ॥ | साधुद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्व मनोवाकायकर्मभिः 'नानुजानन्ति' नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थ पापक कर्म परैः कृतं क्रियते करिष्यते वा, तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजा|| नन्ति' न च बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमत्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्श-28 । यति-आत्माऽकुशलमनोवाकायनिरोधेन गुप्तो येषां ते तथा, जितानि-वशीकृतानि इन्द्रियाणि-श्रोत्रादीनि यैस्ते तथा, एव म्भूताः पापकर्म नानुजानन्तीति स्थितम् ॥ २१ ॥ अन्यच्च-ये केचन 'अबुद्धा' धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं, न च व्याकरणपरिज्ञानमात्रेण सम्यक्तव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्-"शास्त्रावगाहपरिघट्टनतत्परोऽपि, नैवाबुधः समभिगच्छति वस्तुतत्त्वम् ।। Reckewececeaeeeeeeeeeeeeee 'नानुजा-18 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy