________________
अथ अष्टमं श्रीवीर्याध्ययनं प्रारभ्यते ॥
८ वीर्या
ध्ययनं.
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१६५॥
Eeeeeeeeeeeeeeeeeeserceder
उक्तं सप्तममध्ययनं, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीला प्रतिपादिताः, तेषां च कुशीललं सुशीलखं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोऽाधिकारोऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्य परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पने तु निक्षेपे | वीर्याध्ययनं, वीर्यनिक्षेपाय नियुक्तिकृदाह
विरिए छक्कं दव्वे सचित्ताचित्तमीसगं चेव । दुपयचउप्पयअपयं एवं तिविहं तु सचित्तं ॥११॥ वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात पोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्य द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिधा वीर्य, सचित्तमपि | द्विपदचतुष्पदापदभेदात त्रिविधमेव, तत्र द्विपदानां अर्हच्चक्रवर्तिबलदेवादीनां यद्वीर्य स्त्रीरत्नस्य वा यस्य वा यद्वीय तदिह | द्रव्यवीयेखेन ग्राह्य, तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तदिति, तथाऽपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ॥ अचित्तवीर्यप्रतिपादनायाह
अचित्तं पुण विरियं आहारावरणपहरणादीसु । जह ओसहीण भणियं विरियं रसवीरियविवागो ॥९२॥
॥१६५॥
शीतोष्णकालयोरुष्णशीतवीपरमादीनां वा परस वा यद्वोढव्य धायल वा यदीर्य तदिह ४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org