SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आवरणे कवयादी चक्कादीयं च पहरणे होंति । खित्तंमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ९३ ॥ अचित्तद्रव्यवीर्यं त्वाहारावरणप्रहरणेषु यद्वीर्यं तदुच्यते, तत्राऽऽहारवीर्यं 'सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफापहाः' इत्यादि, ओषधीनां च शल्योद्धरणसंरोहणविषापहारमेधाकरणादिकं रसवीर्य, विपाकवीर्यं च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति, तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्य तदुच्यत | इति । अधुना क्षेत्रकालवीर्यं गाथापश्चार्धेन दर्शयति-क्षेत्रवीर्यं तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति, यस्मिन्वा क्षेत्रे वीर्यं व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमध्ये कान्तसुषमादावायोज्यमिति, तथा चोक्तम् - " वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामल - करसो, घृतं वसन्ते गुडवान्ते ॥ १ ॥ " तथा " ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया | शुण्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः || १||” भाववीर्यप्रतिपादनायाह - भावो जीवस्स सवीरियस्स विरियंमि लद्धिऽणेगविहा । ओरस्सिंदियअज्झप्पिएस बहुसो बहुविहीयं ॥ ९४ ॥ | मणवइकाया आणापाणू संभव तहा य संभव्वे । सोत्तादीणं सद्दादिएस विसएस गहणं च ॥ ९५ ॥ 'सवीर्यस्य' वीर्यशक्त्युपेतस्य जीवस्य 'वीर्ये' वीर्यविषये अनेकविधा लब्धिः, तामेव गाथापश्चार्द्धेन दर्शयति, तद्यथा - उरसि 1 Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy