________________
'आददीत' गृह्णीयात् , यथा सुभटः कश्चित् सङ्ग्रामशिरसि शत्रुभिरभिद्रुतः 'परं' शत्रु दमयति एवं परं-कर्मशत्रु परीषहोप| सर्गाभिद्रुतोऽपि दमयेदिति ॥ अपि च-परीषहोपसगैर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते, किमिव?-फलकवदपकृष्टः | यथा फलकमुभाभ्यामपि पार्श्वभ्यां तष्टं-घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा | निष्टप्तदेहस्तनुः-दुर्बलशरीरोरक्तद्विष्टश्च, अन्तकस्य-मृत्योः 'समागमं प्राप्तिम् 'आकाङ्क्षति' अभिलपति, एवं चाष्टप्रकारं | कर्म 'निर्धूय' अपनीय न पुनः 'प्रपञ्च जातिजरामरणरोगशोकादिकं प्रपश्यते बहुधा नटवद्यसिन् स प्रपश्चः-संसारस्तं 'नोपैति' न याति, दृष्टान्तमाह-यथा अक्षस्य 'क्षये विनाशे सति 'शकटं' गच्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावानोपयाति, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्च नोपयातीति, गतोऽनुगमो, नयाः पूर्ववद् , इतिशब्दः परिसमाप्त्यर्थे | ब्रवीमीति पूर्ववत् ॥ ३० ॥ समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनं ।
eectestretstecccceededesese
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org