SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Ereereaderseseseseseseseseisesesesen व्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात् , घटादिवदिति । तदेवं भूतव्यतिरिक्तस्साऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः, जलस्य बुदबुदाभिव्यक्तिवदिति । केषाश्चिल्लोकायतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमाद्भूतपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं | तर्हि मृत इति व्यपदेश इत्याशक्याह-अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तवं तेषामन्यतमस्य 'विनाशे | अपगमे वायोस्तेजसश्चोभयो 'देहिनो देवदत्ताख्यस 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति ॥ अत्र प्रतिसमाधानार्थ नियुक्तिकृदाह पंचण्हं संजोए अण्णगुणाणं च चेयणाइगुणो। पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो ॥ ३३॥ | _ 'पञ्चानां' पृथिव्यादीनां भूतानां 'संयोगे' कायाकारपरिणामे चैतन्यादिकः आदिशब्दात् भाषाचङ्क्रमणादिकश्च गुणो न & भवतीति प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः, दृष्टान्तस्वभ्यूह्यः, सुलभखात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः-यदे-18 तद्भूतानां संयोगे चैतन्यमभिव्यज्यते तत्कि तेषां संयोगेऽपि स्वातंत्र्य एवाऽऽहोवित्परस्परापेक्षया पारतत्र्ये इति ?, किंचातः १,| न तावत्स्वातन्त्र्ये, यत आह–'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-आधारकाठिन्यगुणा पृथिवी द्रवगुणा आपः पक्तगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान तत्समुदायाच्चैतन्याख्यो गुणः। al Educatio n al For Personal & Private Use Only .jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy