________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं
॥१५॥
गाख्यैरेकादशभिर्गुणैर्गुणवत्, तत्र रूपं शुक्लं भाखरं च, स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्या- १समयापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् हृत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभा- ध्ययने पषिकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाख्यैः षभिर्गुणैर्गुणवत् शब्दलिङ्गं चेति, एवमन्यैरपि
रसमयेषु वादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति ?, उच्यते, सांख्यादिभिर्हि प्रधानात्साहकारिक
चावोंकः तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किश्चिदभ्युपगम्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ॥७॥ यथा चैतत् तथा दर्शयितुमाह-'एए पंच महन्भूया' इत्यादि, 'एतानि' अनन्तरोक्तानि पृथिव्यादीनि पश्च महाभूतानि यानि 'तेभ्यः' कायाकारपरिणतेभ्यः 'एक' कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, तथा(ते)हि एवं प्रमाणयन्ति-न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात् , प्रमाणं चात्र प्रत्यक्षमेव,नानुमानादिकं,तनेन्द्रियेण साक्षादर्थस्य संबन्धाभावाद्यभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे च बाधासं|| भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम्- "हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । अनुमानप्रधानेन, 18| ॥१५॥
विनिपातो न दुर्लभः ॥१॥" अनुमान चात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धाभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति । || तस्मात्प्रत्यक्षमेवैकं प्रमाणं, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभि-12
१ हृति० प्र० हरणमित्यर्थः ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org