________________
भाववादिनिराकरणं द्रष्टव्यम्, 'इह' असिन् लोके 'एकेषां' भूतवादिनाम् 'आख्यातानि' प्रतिपादितानि तत्तीर्थकृता | तैर्वा भूतवादिभिर्वार्हस्पत्यमतानुसारिभिराख्यातानि–स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि, तद्यथा| पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पश्चमं येषां | तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धखात् प्रत्यक्षप्रमाणावसेयखाच न कैश्चिदपोतुं शक्यानि । ननु च साड्यादिभिरपि भूतान्यभ्युपगातान्येव, तथाहि सांख्यास्तावदेवमूचुः-सत्त्वरजस्तमोरूपात्प्रधानान्महान् , बुद्धिरित्यर्थः, महतोऽहङ्कारः-अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्षोड़शको गण उत्पद्यते, स चायम्-पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वा
पाणिपादपायूपस्थरूपाणि पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा-गन्धरसरूपस्पर्शशब्दतन्मात्रा-81 ख्यानि, तत्र गन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजो रूपस्पर्शवत् , स्पर्शतन्मात्राद्वायुः स्पर्शवान्, शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति । तथा वैशेषिका अपि भूतान्यभिहितवन्तः, तद्यथा-पृथिवीखयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, घणुकादिप्रक्रमनिष्पन्नकार्यरूपतया खनित्या, चतुर्दशभिर्गुण रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्खसंयोगविभागपरत्वापरखगुरुखवखवेगाख्यैरुपेता, तथाऽप्वयोगादापः, ताश्च रूपरसस्पर्शसंख्यापरिमाणपृथक्खसंयोगविभागपरखापरखगुरुखस्वाभाविकद्रवखस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्शः शीत एवेति, तेजस्वाभिसंबन्धात्तेजः, तच्च रूपस्पर्शसंख्यापरिमाणपृथक्वसंयोगविभागपरखापरखनैमित्तिकद्रवत्ववे१ आगोपालाना प्र.।
jalt Education International
For Personal & Private Use Only
www.jainelibrary.org