________________
सूत्रकृताङ्ग शीलाङ्काचार्य यवतियुतं
॥ १६ ॥
bese
सिद्ध्यतीति, प्रयोगस्त्वत्र — भूतसमुदायः खातच्ये सति धर्मिलेनोपादीयते, न तस्य चैतन्वाख्यो गुणोऽस्तीति साध्यो धर्मः, पृथिव्यादीनामन्यगुणखात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यं, तदात्मगुणो भविष्यति न भूतानामिति । अस्मिन्नेव साध्ये हेखन्तरमाह - 'पञ्चिन्दियठाणाणं' ति पञ्च च तानि स्पर्शनरसनप्राणचक्षुः श्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि - अवकाशास्तेषां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम्, इदमत्र हृदयं -- लोकायतिकानां हि अपरस्य द्रष्टुरनभ्युपगमादिन्द्रियाण्येव द्रष्टृणि, तेषां च यानि स्थानानि उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणां चामूनि स्थानानि, तद्यथा— श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात्, चक्षुरिन्द्रियस्य तेजस्तद्रूपखात् एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति । प्रयोगश्चात्र – नेन्द्रियाण्युपलब्धिमन्ति तेषामचेतनगुणारब्धखात्, यद्यदचेतनगुणारब्धं तत्तदचेतनं, यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभाव एव साधितो भवति । पुनर्हेखन्तरमाह'ण अण्णमुणियं मुणइ अण्णो' त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि तान्येवापरस्य द्रष्टुरभावाद् द्रष्टृणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पश्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं तस्मादेकेनैव द्रष्ट्रा भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्येति, प्रयोगः पुनरेवं-न | भूतसमुदाये चैतन्यं, तदारुधेन्द्रियाणां प्रत्येकविषयग्राहिले सति संकलनाप्रत्ययाभावात्, यदि पुनरन्यगृहीतमप्यन्यो गृह्णीयाद् | देवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत, न चैतद् दृष्टमिष्टं वेति । ननु च स्वातत्र्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयो
Jain Education International
For Personal & Private Use Only
१ समयाध्ययने प
रसमयेषु
चार्वाकः
॥ १६ ॥
www.jainelibrary.org