SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यांयवृत्तियुतं ॥१६॥ eseseseeeeeeeeeeeeese | मुखेन मङ्गलानि-प्रशंसावाक्यानि ईदृशस्तादृशस्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च-"सो एसो जस्स गुणा वियरंत-|| ७ कुशील|निवारिया दसदिसासु । इहरा कहासु सुच्चसि पच्चक्खं अज्ज दिट्ठोऽसि ॥१॥" इत्येवमौदर्य प्रति गृद्धः अध्युपपन्नः, किमिव ?-||४|| परिभाषा 'नीवारः' मूकरादिमृगभक्ष्यविशेषस्तसिन् गृद्ध-आसक्तमना गृहीखा च स्वयूथं 'महावराहो' महाकायः सूकरः स चाहारमा-12 त्रगृद्धोऽतिसंकटे प्रविष्टः सन् 'अदूर एव' शीघ्रमेव 'घातं विनाशम् 'एष्यति' प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ॥२५॥ किंचान्यत् , स कुशीलोऽन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रति| शब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव व्रजति कुशीलतांच गच्छति, तथा निर्गतः-अपगतःसार:-चारित्राख्यो यस्य स निःसारः, यदिवा| निर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान् , पुलाक इव निष्कणो भवति यथा-एवमसौ संयमानुष्ठानं निःसारीकरोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातनास्थानान्यवानोति ॥ २६ ॥ उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह ॥१६३॥ अण्णातपिंडेणऽहियासएजा, णो पूयणं तवसा आवहेजा । सद्देहिं रूवेहिं असजमाणं, सवेहि १ स एष यस्य गुणाः विचरन्त्यनिवारिता दशदिशासु इतरथा कथासु श्रूयते प्रत्यक्षं अद्य दृष्टोऽसि ॥१॥ SO90099999999 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy