________________
ओहे सीलं विरती विरयाविरई य अविरती असीलं । धम्मे णाणतवादी अपसत्थ अहम्मकोवादी ॥ ८७ ॥ तत्रौघः - सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवा - यां तु-अनवरतसेवनायां तु शीलमिदं, तद्यथा - 'धर्मे' धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा, आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्त भावशीलं खधर्मप्रवृत्तिर्बाह्या आन्तरा तु क्रोधादिषु प्रवृत्तिः, आदिग्रहणात् शेषकषायाचौर्याभ्याख्यान कलहादयः परिगृह्यन्त इति । साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थतां दर्शयितुमाहपरिभासिया कुसीला य एत्थ जावंति अविरता केई । सुत्ति पसंसा सुद्धो कुत्ति दुर्गुछा अपरिसुद्धो ॥ ८८ ॥
परि - समन्तात् भाषिताः - प्रतिपादिताः 'कुशीला ः ' कुत्सितशीलाः परतीर्थिकाः पार्श्वस्यादयश्च चशब्दात् यावन्तः केच| नाविरता अस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह- सुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते, तद्यथा - सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्तते, कुतीर्थ कुग्राम | इत्यादि । यदि कुत्सितशीलाः कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह
अफासुयपडिसेविय णामं भुजो य सीलवादी य । फासुं वयंति सीलं अफासुया मो अर्भुजंता ॥ ८९ ॥ अस्त्ययं शीलशब्दस्तत्वाभाव्ये, तथाहि - यः फलनिरपेक्षः क्रियास्वाभरणादिकासु प्रवर्तते स चेह द्रव्यशीलखेन प्रदर्शितः, अस्त्युपशमप्रधाने चारित्रे, तथाहि - तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति, स चेह भावशीलग्रहणेनोपात्त | इति, इह च यतीनां ध्यानाध्ययनादिकं मुक्ला धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्त्वा नापरः कथिव्यापारोऽस्तीत्यतस्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org