________________
अथ सप्तमं अध्ययनं प्रारभ्यते ॥
सूत्रकृताङ्गं शीलाङ्काचायीयवृत्तियुतं
७ कुशीलपरिभाषा.
॥१५३॥
उक्तं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्तनतः सुशीलप| रिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कुशीला:-परतीर्थिकाः पार्श्वस्थादयो वा स्वयूथ्या अशीलाश्च गृहस्थाः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाश्चेति, | निक्षेपस्त्रिधा-ओघनामसूत्रालापकभेदात, तत्रौषनिष्पन्न निक्षेपेऽध्ययनं,नामनिष्पन्ने कुशीलपरिभाषेति, एतदधिकृत्य नियुक्तिकृदाह
सीले चउक्क दव्वे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव ॥ ८६ ॥ । 'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क'मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादृत्य 'द्रव्यम्' इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं, अस्थायमर्थः-यो हि फलनिरपेक्षस्तत्वभावादेव क्रियासु प्रवर्तते स तच्छीला, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यानित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजना-18॥१५३॥ | दिश्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः खभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा ओघशीलमा| भीक्ष्ण्यसेवनाशीलं चेति ॥ तत्रौघशीलं व्याचिख्यासुराह
eseseeeeeeeeeeeecenese
Jain Education international
For Personal & Private Use Only
wwww.jainelibrary.org